श्री संकटनाशन गणेश स्तोत्र (Sankat Nashan Ganesh Stotra)

श्री गणेशाय नमः।। नारद उवाच ।।

प्रणम्यं शिरसा देवं गौरीपुत्रं विनायकम्।

भक्त्या व्यास: स्मरैनित्यंमायु:कामार्थसिद्धये।।१।।

प्रथमं वक्रतुंडं च एकदंतं द्वितीयकम्।

तृतीयं कृष्णपिङा्क्षं गजवक्त्रं चतुर्थकम्।।२।। 

लम्बोदरं पंचमं च षष्ठं विकटमेव च।

सप्तमं विघ्नराजेन्द्रं धूम्रवर्ण तथाष्टमम् ।।३।।

नवमं भालचन्द्रं च दशमं तु विनायकम्।

एकादशं गणपतिं द्वादशं तु गजाननम्।।४।।

द्वादशैतानि नामानि त्रिसंध्य्म य: पठेन्नर:।

न च विघ्नभयं तस्य सर्वासिद्धिकरप्रभो:।।५। 

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।

पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ।।६।।

जपेद्वगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत्।

संवत्सरेण सिद्धिं च लभते नात्र संशय: ।।७।।

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत।

तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत:।।८।।

।। इति श्रीनारदपुराणे संकटनाशनं गणेशस्तोत्रं सम्पूर्णम्‌।।

Leave a Reply

Your email address will not be published. Required fields are marked *